ความยาก = เบื้่องต้น

पञ्चतन्त्रम्


कस्मिंश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म।

तस्य भिक्षार्जितैः सक्तुभिर्भुक्तोर्वरितैर्घटः परिपूरितः।

तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वां निधाय सततमेकदृष्ट्या तमवलोकयति।

अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास यत् परिपूर्णोऽयं घटस्तावत्सक्तुभिर्वर्तते तद्यदि दुर्भिक्षं भवति तदनेन रूपकाणां शतमुत्पद्यते।

ततस्तेन मयाजाद्वयं ग्रहीतव्यं।

ततः षण्मासिकप्रसववशात्ताभ्यां यूथं भविष्यति। ६

ततोऽजाभिः प्रभूता गा ग्रहीष्यामि गोभिर्महिषीर्महिषीभिर्वडवाः। ७

वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति। ८

तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यति। ९

सुवर्णेन चतुःशालं गृहं सम्पद्यते ततः कश्चिद्ब्राह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति। १०

तत्सकाशात्पुत्रो मे भविष्यति। ११

तस्याहं सोमशर्मेति नाम करिष्यामि। १२

तत्तस्मिञ्जानुचलनयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्वशालायाः पृष्ठदेश उपविष्टस्तदवधारयिष्यामि। १३

अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज्जानुप्रचलनपरोऽश्वखुरासन्नवर्ती मत्समीपमागमिष्यति। १४

ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि गृहाण तावद्बालकम्। १५

सापि गृहकर्मव्यग्रतयास्मद्वचनं न श्रोष्यति। १६

ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि।  १७

एवं तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः। १८

सक्तुभिः पाण्डुरतां गतः॥ १९


ปัญจตันตระ (ปญฺจตนฺตร) เป็นนิืทานสมัยโบราณ เล่าสืบต่อกันมาช้านาน ในที่นี้ขอนำมาเล่าเพื่อการเรียนภาษาสันสกฤตขั้นต้น เพราะศัพท์และไวยากรณ์นั้นไม่ยาก (สำหรับผู้ที่เริ่มเรียนภาษาสันสกฤต) โดยจะอธิบา่ยไปทีละประโยค ทั้งหมด 19 ประโยค ดังกำกับด้วยตัวเลขไว้แล้ว


อ้างอิง

http://www.sanskrit-sanscrito.com.ar/en/scriptures_stories/stories1.shtml